Pages

Thursday, November 22, 2012

प्रज्ञापारमिताहृदयसूत्रम्। [संक्षिप्तमातृका]


॥ नमः सर्वज्ञाय॥
॥ ऊँ नमो भगवत्यै आर्य-प्रज्ञापारमितायै ॥ 
आर्यविलोकितेश्वरो बोधिसत्वो गम्भीरां प्रज्ञापारमिता-चर्या चरमाणो व्यवलोकयति स्म-पञ्च स्कन्धाः ।
तांश्च स्वभाव-शून्यान् पश्यति स्म॥
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्।
यद्रूपं सा शून्यता, या शून्यता तद्रूपम् । एवमेव वेदना-संज्ञा-संस्कार-विज्ञानं ॥
इहं शारिपुत्र सर्व धर्माः शून्यता, लक्षणा, अनुत्पन्ना, अनिरुद्धा, अमला विमला, अनूना अपरिपूर्णाः।
तस्माच्छारिपुत्र शून्यतायां न रूपं, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानं ।
न चक्षुःश्रोत्र-घ्राण-जिह्वा-काय-मनांसि ।
न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य:-धर्माः। 
न चक्षुर्धातुर्यावन्न मनोविज्ञान-धातु न विधा ।
न अविधा-क्षयो यावन्न जरा मरणं न जरा मरण-क्षयो । 
न दुःख-समुदय-निरोध मार्गा । न ज्ञानं न प्राप्तिर् न अप्राप्तिः ॥
तस्माच्छारिपुत्र अत्रात्तित्वाद बोधिसत्वस्य प्रज्ञापारमितामाश्रित्य विहरति अचित्तावरणः।
चित्तावरण-नास्तित्वाद अत्रस्तो विपर्यासातिक्रान्तो निष्ठ-निर्वाण प्राप्तः।
त्रध्व-व्यवस्थितः सर्व-बुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्-संबोधिम् अभिसंबुद्धाः ॥
तस्मात्ज्ञातव्यं प्रज्ञापारमिता महा-मन्त्रोऽमहा-विधा-मन्त्रोऽनुत्तर-मन्त्रोऽसमसम-मन्त्रः, सर्व-दुःख प्रशमनः, सत्यम् अमिथ्यत्वात् ।
प्रज्ञापारमितायाम् उक्तो मन्त्रः। तधथा -- 'गते गते पारगते पारसंगते बोधि स्वाहा'॥
इति प्रज्ञा पारमिता हृदय सूत्रं समाप्तम्॥

2 comments:

  1. Ashsish Bhai please remove the word verification for publishing comments , comments approval are sufficent to prevent spams .word verification is irritating and generally bloggers avoid in visiting and commenting on blog posts.

    ReplyDelete