॥ नमः सर्वज्ञाय॥
॥ ऊँ नमो भगवत्यै आर्य-प्रज्ञापारमितायै ॥
आर्यविलोकितेश्वरो बोधिसत्वो गम्भीरां प्रज्ञापारमिता-चर्या चरमाणो व्यवलोकयति स्म-पञ्च स्कन्धाः ।
तांश्च स्वभाव-शून्यान् पश्यति स्म॥
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्।
यद्रूपं सा शून्यता, या शून्यता तद्रूपम् । एवमेव वेदना-संज्ञा-संस्कार-विज्ञानं ॥
इहं शारिपुत्र सर्व धर्माः शून्यता, लक्षणा, अनुत्पन्ना, अनिरुद्धा, अमला विमला, अनूना अपरिपूर्णाः।
तस्माच्छारिपुत्र शून्यतायां न रूपं, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानं ।
न चक्षुःश्रोत्र-घ्राण-जिह्वा-काय-मनांसि ।
न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य:-धर्माः।
न चक्षुर्धातुर्यावन्न मनोविज्ञान-धातु न विधा ।
न अविधा-क्षयो यावन्न जरा मरणं न जरा मरण-क्षयो ।
न दुःख-समुदय-निरोध मार्गा । न ज्ञानं न प्राप्तिर् न अप्राप्तिः ॥
तस्माच्छारिपुत्र अत्रात्तित्वाद बोधिसत्वस्य प्रज्ञापारमितामाश्रित्य विहरति अचित्तावरणः।
चित्तावरण-नास्तित्वाद अत्रस्तो विपर्यासातिक्रान्तो निष्ठ-निर्वाण प्राप्तः।
त्रध्व-व्यवस्थितः सर्व-बुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्-संबोधिम् अभिसंबुद्धाः ॥
तस्मात्ज्ञातव्यं प्रज्ञापारमिता महा-मन्त्रोऽमहा-विधा-मन्त्रोऽनुत्तर-मन्त
प्रज्ञापारमितायाम् उक्तो मन्त्रः। तधथा -- 'गते गते पारगते पारसंगते बोधि स्वाहा'॥
इति प्रज्ञा पारमिता हृदय सूत्रं समाप्तम्॥
namaste, thanks for this Sanskrit text of Heart Sutra in Devanagari, its very helpfull for me to learn Buddhist Sanskrit text. Sarva mangalam
ReplyDelete